A group of Astro Lovers, Research minded people. Senior colleagues contributes/shares their experiences and reading materials. Tall claims personal praises not relished. The post are the property of the author. Astrocrazycircle does not have any claim over that postings and does not take any responsibility for the correctness of the posts. Regards and welcome.
Saturday, April 21, 2012
“ सदाचार: “ { श्रीमत् आदिशंकराचार्य विरचितम् } !
“ सदाचार: “
__________________
{ श्रीमत् आदिशंकराचार्य विरचितम् }
सच्चिदानंदकंदाय जगदंकुरहेतवे ।
सदोदिताय पूर्णाय नमोऽनंताय विष्णवे ॥ १ ॥
सर्ववेदांतसिद्धांत ग्रथितं निर्मलं शिवम् ।
सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २ ॥
प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः ।
वरेण्यं तद्धि यो यो नः चिदानंदे प्रचोदयात् ॥ ३ ॥
अन्वय व्यतिरेकाभ्यां जाग्रत् स्वप्नसुषुप्तिषु ।
यदेकं केवलं ज्ञानं तदेवाह परं बृहत् ॥ ४ ॥
ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ञाने च पश्यति ।
ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥
अत्यंतमलिनो देहो देही चात्यंतनिर्मलः ।
असंगोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥
मन्मनो मीनवन्नित्यं क्रीडत्यानंदवारिधौ ।
सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥
अथाघमर्षणं कुर्यात् प्राणापाननिरोधतः ।
मनः पूर्णे समाधाय मग्नः कुंभो यथार्णवे ॥ ८ ॥
लयविक्षेपयोः संधौ मनस्तत्र निरामिषम् ।
स संधिः साधितो येन स मुक्तो नात्र संशयः ॥ ९ ॥
सर्वत्र प्राणिनां देहे जपो भवति सर्वदा ।
हंसः सोऽहमिति ज्ञात्वा सर्वबंधैः प्रमुच्यते ॥ १० ॥
तर्पणे स्वसुखेनैव स्वेंद्रियाणां प्रतर्पणम् ।
मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११ ॥
आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् ।
अग्निहोत्री स विज्ञेय इतरे नामधारकाः ॥ १२ ॥
देहो देवालयं प्रोक्तो देही देवो निरंजनः ।
अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥
मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिंतनम् ।
ज्ञानेनेति तयोः सम्यङ् निषेधांतःप्रदर्शनम् ॥ १४ ॥
अतीतानागतं किंचित् न स्मरामि न चिंतये ।
रागद्वेषं विना प्राप्तं भुंजाम्यत्र शुभाशुभम् ॥ १५ ॥
अभयं सर्वभूतानां ज्ञनमाहुर्मनिषिणः ।
निजानंदे स्पृहा नान्ये वैराग्यस्यावधिर्मतः ॥ १६ ॥
वेदांतैः श्रवणं कुर्यात् मननं चोपपत्तिभिः ।
योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १७ ॥
शब्दशक्तेरचिंत्यत्वात् शब्दादेवापरोक्षधीः ।
सुषुप्तः पुरुषो यद्वत् शब्देनैवानुबध्यते ॥ १८ ॥
आत्मानात्मविवेकेन ज्ञानं भवति निर्मलं ।
गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ १९ ॥
न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः ।
विकारित्वात् विनाशित्वात् दृष्यत्वाच्च घटो यथा ॥ २० ॥
विशुद्धं केवलं ज्ञानं निर्विशेषं निरंजनम् ।
यदेकं परमानंदं तत्त्वमस्यद्वयं परम् ॥ २१ ॥
शब्दस्याद्यंततोः सिद्धं मनसोऽपि तथैव च ।
मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २२ ॥
स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः ।
अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २३ ॥
चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैकस्वरूपके ।
भ्रम एव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २४ ॥
तार्किकाणां च जीवेशौ वाच्यावेतौ विदुर्बुधाः ।
लक्ष्यौ च सांख्ययोगाभ्यां वेदांतैरैक्यतानयोः ॥ २५ ॥
कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ ।
अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥ २६ ॥
कर्मशास्त्रे कुतो ज्ञाने तर्के नैवास्ति निश्चयः ।
सांख्ययोगौ द्विधापन्नौ शाब्दिकां शब्दतत्पराः ॥ २७ ॥
अन्ये पाखंडिनः सर्वे ज्ञानवार्तासु दुर्बलाः ।
एकं वेदांतविज्ञानं स्वानुभुत्या विराजते ॥ २८ ॥
अहं ममेत्ययं बंधो नाहं ममेति मुक्तता ।
बंधो मोक्षो गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ २९ ॥
ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् ।
मंदभाग्या न जानंति स्वरूपं केवलं बृहत् ॥ ३० ॥
संकल्पसाक्षिणं ज्ञानं सर्वलोकैकजीवनम् ।
तदस्मीति च यो वेद स मुक्तो नात्र संशयः ॥ ३१ ॥
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा ।
तस्य भासावभासेत मानं ज्ञानाय तस्य किम् ॥ ३२ ॥
अर्थाकारा भवेद् वृत्तिः फलेनार्थः प्रकाशते ।
अर्थज्ञानं विजानाति स एवार्थः परं स्मृतः ॥ ३३ ॥
वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् ।
स्वप्रकाशस्वरूपत्वात् सिद्धत्वाच्च चिदात्मनः ॥ ३४ ॥
अर्थादर्थे यथा वृत्तिः गतुं चलति चांतरे ।
अनाधारा निर्विकारा या दशा सोन्मनी स्मृता ॥ ३५ ॥
चित्तं चिच्च विजानीयात् तकाररहितं यदा ।
तकारो विषयाध्यासो जपारागो यथा मणौ ॥ ३६ ॥
ज्ञेयवस्तुपरित्यागात् ज्ञानं तिष्ठति केवलम् ।
त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति ॥ ३७ ॥
मनोमात्रमिदं सर्वं चिन्मनो ज्ञानमात्रकम् ।
अज्ञानभ्रम इत्याहुः विज्ञानं परमं पदम् ॥ ३८ ॥
अज्ञानं चान्यथाज्ञानं मायामेतां वदंति ते ।
ईश्वरं मायिनं विद्यान्मायातीतं निरंजनम् ॥ ३९ ॥
सदानंदे चिदाकाशे मायामेघस्तडिन्मनः ।
अहंता गर्जनं तत्र धारासारो हि यत्तमः ॥ ४० ॥
महामोहांधकारेऽस्मिन् देवो वर्षति लीलया ।
अस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ॥ ४१ ॥
ज्ञानं दृग्दृश्ययोर्भानं विज्ञानं दृश्यशून्यता ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४२ ॥
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ।
विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः ॥ ४३ ॥
परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ।
आत्मनो ब्रह्मणः सम्यक् उपाधिद्वयवर्जितम् ॥ ४४ ॥
त्वमर्थो विषयज्ञानं विज्ञानं तत्पदाश्रयम् ।
पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञकम् ॥ ४५ ॥
आत्मानात्मविवेकस्तु ज्ञानमाहुर्मनीषिणः ।
अज्ञानं चान्यथा लोके विज्ञानं तन्मयं जगत् ॥ ४६ ॥
अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ।
यत्तु तत् वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ॥ ४७ ॥
अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ।
ज्ञानविज्ञाननिष्ठेयं तत् सत् ब्रह्मणि चार्पणम् ॥ ४८ ॥
भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ।
भोग्यं तमोगुणं प्राहुः आत्मा चैषां प्रकाशकः ॥ ४९ ॥
ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यरतः सदा ।
सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ॥ ५० ॥
गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ।
गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् ॥ ५१ ॥
किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ।
हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते ॥ ५२ ॥
देहन्यासो हि संन्यासो नैव काषायवाससा ।
नाहं देहो महात्मेति निश्चयो ज्ञानलक्षणम् ॥ ५३ ॥
सदाचारमिमं नित्यं येऽनुसंदधते बुधाः ।
संसारसागरात् शीघ्रं मुच्यंते नात्र संशयः ॥ ५४ ॥
इति श्रीमत् भगवत्पादादार्यविरचितः सदाचारः संपूण
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment