Saturday, April 21, 2012

“ सदाचार: “ { श्रीमत् आदिशंकराचार्य विरचितम् } !

“ सदाचार: “ __________________ { श्रीमत् आदिशंकराचार्य विरचितम् } सच्चिदानंदकंदाय जगदंकुरहेतवे । सदोदिताय पूर्णाय नमोऽनंताय विष्णवे ॥ १ ॥ सर्ववेदांतसिद्धांत ग्रथितं निर्मलं शिवम् । सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २ ॥ प्रातः स्मरामि देवस्य सवितुर्भर्ग आत्मनः । वरेण्यं तद्धि यो यो नः चिदानंदे प्रचोदयात् ॥ ३ ॥ अन्वय व्यतिरेकाभ्यां जाग्रत् स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवाह परं बृहत् ॥ ४ ॥ ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ञाने च पश्यति । ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५ ॥ अत्यंतमलिनो देहो देही चात्यंतनिर्मलः । असंगोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६ ॥ मन्मनो मीनवन्नित्यं क्रीडत्यानंदवारिधौ । सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७ ॥ अथाघमर्षणं कुर्यात् प्राणापाननिरोधतः । मनः पूर्णे समाधाय मग्नः कुंभो यथार्णवे ॥ ८ ॥ लयविक्षेपयोः संधौ मनस्तत्र निरामिषम् । स संधिः साधितो येन स मुक्तो नात्र संशयः ॥ ९ ॥ सर्वत्र प्राणिनां देहे जपो भवति सर्वदा । हंसः सोऽहमिति ज्ञात्वा सर्वबंधैः प्रमुच्यते ॥ १० ॥ तर्पणे स्वसुखेनैव स्वेंद्रियाणां प्रतर्पणम् । मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११ ॥ आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् । अग्निहोत्री स विज्ञेय इतरे नामधारकाः ॥ १२ ॥ देहो देवालयं प्रोक्तो देही देवो निरंजनः । अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३ ॥ मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिंतनम् । ज्ञानेनेति तयोः सम्यङ् निषेधांतःप्रदर्शनम् ॥ १४ ॥ अतीतानागतं किंचित् न स्मरामि न चिंतये । रागद्वेषं विना प्राप्तं भुंजाम्यत्र शुभाशुभम् ॥ १५ ॥ अभयं सर्वभूतानां ज्ञनमाहुर्मनिषिणः । निजानंदे स्पृहा नान्ये वैराग्यस्यावधिर्मतः ॥ १६ ॥ वेदांतैः श्रवणं कुर्यात् मननं चोपपत्तिभिः । योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १७ ॥ शब्दशक्तेरचिंत्यत्वात् शब्दादेवापरोक्षधीः । सुषुप्तः पुरुषो यद्वत् शब्देनैवानुबध्यते ॥ १८ ॥ आत्मानात्मविवेकेन ज्ञानं भवति निर्मलं । गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ १९ ॥ न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः । विकारित्वात् विनाशित्वात् दृष्यत्वाच्च घटो यथा ॥ २० ॥ विशुद्धं केवलं ज्ञानं निर्विशेषं निरंजनम् । यदेकं परमानंदं तत्त्वमस्यद्वयं परम् ॥ २१ ॥ शब्दस्याद्यंततोः सिद्धं मनसोऽपि तथैव च । मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २२ ॥ स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः । अज्ञानमाययोरैक्यं प्रत्यग्‍विज्ञानपूर्णयोः ॥ २३ ॥ चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैकस्वरूपके । भ्रम एव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २४ ॥ तार्किकाणां च जीवेशौ वाच्यावेतौ विदुर्बुधाः । लक्ष्यौ च सांख्ययोगाभ्यां वेदांतैरैक्यतानयोः ॥ २५ ॥ कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ । अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥ २६ ॥ कर्मशास्त्रे कुतो ज्ञाने तर्के नैवास्ति निश्चयः । सांख्ययोगौ द्विधापन्नौ शाब्दिकां शब्दतत्पराः ॥ २७ ॥ अन्ये पाखंडिनः सर्वे ज्ञानवार्तासु दुर्बलाः । एकं वेदांतविज्ञानं स्वानुभुत्या विराजते ॥ २८ ॥ अहं ममेत्ययं बंधो नाहं ममेति मुक्तता । बंधो मोक्षो गुणैर्भाति गुणाः प्रकृतिसंभवाः ॥ २९ ॥ ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् । मंदभाग्या न जानंति स्वरूपं केवलं बृहत् ॥ ३० ॥ संकल्पसाक्षिणं ज्ञानं सर्वलोकैकजीवनम् । तदस्मीति च यो वेद स मुक्तो नात्र संशयः ॥ ३१ ॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । तस्य भासावभासेत मानं ज्ञानाय तस्य किम् ॥ ३२ ॥ अर्थाकारा भवेद् वृत्तिः फलेनार्थः प्रकाशते । अर्थज्ञानं विजानाति स एवार्थः परं स्मृतः ॥ ३३ ॥ वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् । स्वप्रकाशस्वरूपत्वात् सिद्धत्वाच्च चिदात्मनः ॥ ३४ ॥ अर्थादर्थे यथा वृत्तिः गतुं चलति चांतरे । अनाधारा निर्विकारा या दशा सोन्मनी स्मृता ॥ ३५ ॥ चित्तं चिच्च विजानीयात् तकाररहितं यदा । तकारो विषयाध्यासो जपारागो यथा मणौ ॥ ३६ ॥ ज्ञेयवस्तुपरित्यागात् ज्ञानं तिष्ठति केवलम् । त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति ॥ ३७ ॥ मनोमात्रमिदं सर्वं चिन्मनो ज्ञानमात्रकम् । अज्ञानभ्रम इत्याहुः विज्ञानं परमं पदम् ॥ ३८ ॥ अज्ञानं चान्यथाज्ञानं मायामेतां वदंति ते । ईश्वरं मायिनं विद्यान्मायातीतं निरंजनम् ॥ ३९ ॥ सदानंदे चिदाकाशे मायामेघस्तडिन्मनः । अहंता गर्जनं तत्र धारासारो हि यत्तमः ॥ ४० ॥ महामोहांधकारेऽस्मिन् देवो वर्षति लीलया । अस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः ॥ ४१ ॥ ज्ञानं दृग्‍दृश्ययोर्भानं विज्ञानं दृश्यशून्यता । एकमेवाद्वयं ब्रह्म नेह नानास्ति किंचन ॥ ४२ ॥ क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते । विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः ॥ ४३ ॥ परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् । आत्मनो ब्रह्मणः सम्यक् उपाधिद्वयवर्जितम् ॥ ४४ ॥ त्वमर्थो विषयज्ञानं विज्ञानं तत्पदाश्रयम् । पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञकम् ॥ ४५ ॥ आत्मानात्मविवेकस्तु ज्ञानमाहुर्मनीषिणः । अज्ञानं चान्यथा लोके विज्ञानं तन्मयं जगत् ॥ ४६ ॥ अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति । यत्तु तत् वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् ॥ ४७ ॥ अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् । ज्ञानविज्ञाननिष्ठेयं तत् सत् ब्रह्मणि चार्पणम् ॥ ४८ ॥ भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः । भोग्यं तमोगुणं प्राहुः आत्मा चैषां प्रकाशकः ॥ ४९ ॥ ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यरतः सदा । सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते ॥ ५० ॥ गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते । गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् ॥ ५१ ॥ किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः । हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते ॥ ५२ ॥ देहन्यासो हि संन्यासो नैव काषायवाससा । नाहं देहो महात्मेति निश्चयो ज्ञानलक्षणम् ॥ ५३ ॥ सदाचारमिमं नित्यं येऽनुसंदधते बुधाः । संसारसागरात् शीघ्रं मुच्यंते नात्र संशयः ॥ ५४ ॥ इति श्रीमत् भगवत्पादादार्यविरचितः सदाचारः संपूण

No comments:

Post a Comment